SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ हैमशब्दानुशासनस्य . पदान्तस्थस्य तवर्गस्य ले परे लौ स्याताम् । तल्लूनम् । भवाल्लूनाति ॥ ६५ ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानखोपज्ञ शब्दानुशासनलघुवृत्तौ प्रथमस्याध्यायस्य तृतीयपादः समाप्तः । १।३।। अत आः स्यादौ जसभ्याम्ये ।१।४।१। स्यादौ जसि भ्यामि ये च परेऽकारस्य आः स्यात् । देवाः। आभ्याम् । सुखाय । स्यादाविति किम् । बाणान् जस्यतीति विप् । बाणजः॥१॥ भिस ऐस । १।४।२। आत्परस्य स्यादेर्भिस ऐस् स्यात् । देवैः । ऐस्करणादतिजरसैः ॥ इदमदसोऽक्येव ।१।४।३। इदमदसोरक्येवसति आत्परस्य भिस ऐस् स्यात् । इमकैः । अमुकैः । अक्येवेति किम् एभिः । अमीभिः ॥ ३ ॥ एहहुस्भोसि । १।४।४।। बह्वर्थे स्यादौ सादौ मादौ ओसिच परे अत एत्स्यात् । एषु। एभिः। देवयोः ॥ ४॥ टाङसोरिनस्यौ।१।४।५। आत्परयोष्टाङसोर्यथासंख्यं इन स्यौ स्याताम् । तेन । यस्य ॥५॥ डेङस्योर्यातौ।१।४।६। आत्परस्य डेङसेश्च यथासंख्यं य आच स्याताम् । देवाय । देवात् ॥ ६॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy