SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः । २३ प्रथमस्य शिटि परे द्वितीयो वा स्यात् । ख्षीरम् । क्षीरम् । अफ्सराः अप्सराः || ५९ ॥ तवर्गस्य चवर्गष्टवर्गाभ्यां योगे चटवर्गों । १ । ३ । ६० । तवर्गस्य शचवर्गाभ्यां षटवर्गाभ्यां च योगे यथासंख्यं चवर्गटवर्गौ स्याताम् । तच्शेते । भवाञ्शेते । तच्चारु । तज्जकारेण । पेष्टा । पूष्णः तट्टकारः । तण्णकारेण । ईट्टे ॥ ६० ॥ सस्य शौ । १ । ३ । ६१ । सस्य श्ववर्गष्टवर्गीभ्यां योगे यथासंख्यं शषौ स्याताम् । चवर्गेण । ज्योतति । वृश्चति । षेण । दोष्षु । टवर्गेण । पापदषि ॥ ६१ ॥ न शात् । १ । ३ । ६२ । शात्परस्य तवर्गस्य चवर्गो न स्यात् । अश्नाति । प्रश्नः ॥ ६२ ॥ पदान्ताट्टवर्गादनाम्नगरीनवतेः । १।३।६३ । पदान्तस्थाट्टवर्गात्परस्य नाम्नगरीनवतिवर्जस्य तवर्गस्य सस्य च टवर्गषौ न स्याताम् । षण्नयं । षण्नयाः । षट्सु । अनाम्नगरी नवतेरिति किम् । षण्णाम् । षण्णगरी | षण्णवतिः ॥ ६३ ॥ षि तवर्गस्य । १ । ३ ।६४। पदान्तस्थस्य तवर्गस्य षे परे टवर्गो न स्यात् । तीर्थकृत्षोडशः शान्तिः ॥ ६४ ॥ लि लौ । १ । ३ । ६५ ।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy