SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ हैमशब्दानुशासनस्य उक्तो वक्ष्यमाणश्च सन्धिर्विरामे न स्यात् । दधि अत्र । तद् लु नाति ॥ ५२ ॥ र : पदान्ते विसर्गस्तयोः । १ । ३ । ५३ । पदान्तस्थस्यरस्य तयोर्विरामाघोषयोर्विसर्गः स्यात् । वृक्षः । स्वः । कती । पदान्त इति किम् | इ || ५३ ॥ ख्यागि । १ । ३ । ५४ । २२ पदान्तस्थस्य रस्य ख्यागि परे विसर्गएव स्यात् । कः ख्यातः । नमः ख्यात्रे ॥ ५४ ॥ शिट्यघोषात् । १ । ३ । ५५ । अघोषात्परे शिटि परतः पदान्तस्थस्य रस्य विसर्गएव स्यात् । पुरुषः त्सरुकः । सर्पिःप्साति । वासःक्षौमम् । अद्भिःप्सातम् ॥ ५५ ॥ व्यत्यये लुग्वा । १ । ३ । ५६ । शिटः परोऽघोष इतिव्यत्ययस्तस्मिन्सति पदान्तस्थस्य रस्य लुग्वा स्यात् । चक्षुश्च्योतति । चक्षुः श्व्योतति ॥ ५६ ॥ अरोः सुपि रः । १ । ३ । ५७ । रोरन्यस्य रस्य सुपि परे र एव स्यात् । गीर्षु । धूर्षु । अरोरिति किम् । पयस्सु ॥ ५७ ॥ वाहर्पत्यादयः । १ । ३ । ५८ । अहर्पत्यादयो यथायोगमकृतविसर्गाः कृतोत्वाभावाश्च वा स्युः । अहर्पतिः । अहःपतिः । गीर्पतिः । गीःपतिः । प्रचेताराजन् । प्रचेतोराजन् ॥ ५८ ॥ शिट्याद्यस्य द्वितीयो वा । १ । ३ । ५९ ।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy