SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः । एतदश्च व्यञ्जने ऽनग्न समासे । १ । ३ । ४६ । एतदस्तदश्च परस्य सेर्व्यञ्जने परे लुक् स्यात् । अकिनञ्समासे न । एषते । साति । अनग्नञ्समास इति किम् । एषकःकृती | सकोयाति । अनंषोयाति । असोवाति ॥ ४६ ॥ व्यञ्जनात्पञ्चमान्तस्थायाः सरूपे २१ वा । १ । ३ । ४७। व्यञ्जनान्तात्परस्य पञ्चमान्तस्थायाश्च सरूपे वर्णे परे लुग् वा स्यात् । क्रुञ्बोङौ । क्रुङौ । क्रुङौ । आदित्योदेवतास्य । आदित्यः । आदित्य्यः । सरूप इति किम् । वर्ण्यते ॥ ४७ ॥ घुटो धुटि स्वे वा । १ । ३ । ४८ । व्यञ्जनात्परस्य घुटो घुटि परे लुग्वा स्यात् । शिष्टि शिष्टि । स्व इतिकिम् । त । दर्शा ॥ ४८ ॥ तृतीयस्तृतीयचतुर्थे । १ । ३ । ४९ । तृतीये चतुर्थे च परे धुटस्तृतीयः स्यात् । मन्नति । दोग्धा ॥ ४९ ॥ अघोषे प्रथमोऽशिटः । १ । ३ । ५० । अघोषे परे शिद वर्जस्य घुटः प्रथमः स्यात् । वाक्पूता । अशिट इति किम् । पयस्सु ॥ ५० ॥ विरामे वा । १ । ३ । ५१ । विरामस्थस्याऽशिटोटः प्रथमो वा स्यात् । वाक् । वाग् ॥ ५१ ॥ न सन्धिः । १ । ३ । ५२ ।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy