SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ हेमशब्दानुशासनस्य एते कर्त्तरि वा निपात्यन्ते । भव्यः । गेयः साम्नम् । जन्यः । रम्यः । आपात्यः । आप्लाव्यः । पक्षे | भव्यम् । गेयानि सामानि । जन्यम् । रम्यम् | आपात्यम् । आप्लाव्यम् ॥ ७ ॥ T प्रवचनीयादयः । ५ । १ । ८। २८२ एते अनीयप्रत्ययान्ताः कर्त्तरि वा निपात्यन्ते । प्रवचनीयो गुरुः शास्त्रस्य । प्रवचनीयं गुरुणा शास्त्रम् । उपस्थानीयः शिष्यो गुरोः । उपस्थानीयः शिष्येण गुरुः ॥ ८ ॥ लिपशीस्थासवसजनरुहजृभजेः क्तः । ५ । १ । ९। एभ्यः क्तो यो विहितः स कर्त्तरि वा स्यात् । आश्लिष्टः कान्त चैत्रः । आश्लिष्टा कान्ता चैत्रेण । अतिशयितो गुरुं शिष्यः । अतिशवितो गुरुः शिष्यैः। उपस्थितो गुरुं शिष्यः । उपस्थितो गुरुः शिष्यैः । उपासिता गुरुं ते । उपासितो गुरुस्तै ः । अनूषिता गुरुं ते । अनूषितो गुरुस्तैः। अनुजातास्तां ते । अनुजाता सा तैः । आरूढोऽश्वं सः । आरूढोऽश्वस्तैः । अनुजीर्णास्तां ते । अनुजीर्णा सा तैः । विभक्ताः खं ते । विभक्तं स्वं तैः ॥ ९ ॥ आरम्भे । ५ । १ । १० । आरम्भर्द्धातोर्भूतादौ यः क्तो विहितः स कर्तरि वा स्यात् । प्रकृताः कटं ते । प्रकृतः कटस्तैः ॥ १० ॥ गत्यर्थाऽकर्मकपिबभुजेः । ५ । १ । ११ । T भूतादौ यः को विहितः स एम्यः कर्त्तरि वा स्यात् । गतोऽसौ ग्रामम् । गतोऽसौ तैः । आसितोऽसौ । आसितं तैः । पीताः पयः पीतं पयः । भुक्तास्ते । इदं तैर्भुक्तम् ॥ ११ ॥ ★
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy