________________
हेमशब्दानुशासनस्य
ञिरुणमोर्वा । ४ । ४ । १०६ ।
औरुणमि च लभः स्वरात्परो न अन्तो वा स्यात् । अलाभि । अलम्भि । लम्भलम्भम् । लाभलाभम् ॥ १०६ ॥
२७८
उपसर्गात् खल्घञोश्च । ४ । ४ । १०७ ।
उपसर्गाल्लभः स्वरात्परः खल्घञोर्निरूणमोश्च परयोर्न अन्तः स्यात् । दुष्प्रलम्भम् । प्रलम्भः । प्रालम्भि । प्रलम्भंपलम्भम् । उपसर्गादिति किम् । लाभः ॥ १०७ ॥
सुदुर्भ्यः । ४ । ४ । १०८ ।
आभ्यां समस्तव्यस्ताभ्यां उपसर्गात्पराभ्यां परस्य लभः स्वरात्परः खल्घञोर्नोऽन्तः स्यात् । अतिसुलम्भम् । अतिदुर्लम्भम् । अतिसुलम्भः । अतिदुर्लभः। अतिसृदुर्लम्भम् । अति सुदुर्लम्भः। उपसर्गादित्येव । सुलभम् ।। नशोधुटि । ४ । ४ । १०९ ।
नशेः स्वरात्परोधुडादौ प्रत्यये न् अन्तः स्यात् । नंष्टा । धुटीति किम् । नशिता ।। १०९ ॥
मस्जेः सः । ४ । ४ । ११० ।
मस्जेः स्वरात्परस्य सस्य धुडादौ प्रत्यये न् अन्तः स्यात् । मङ्क्ता ॥
अः सृजिदृशोऽकिति । ४ । ४ । १११ ।
अनयोः स्वरात्परो धुडादौ प्रत्यये अदन्तः स्यात् नतु किति । स्रष्टा । द्रष्टुम् । अकितीति किम । सृष्टः ॥ १११ ॥
स्पृशादिसृपो वा । ४ । ४ । ११२ ।
स्पृशमृशषतृपदृपां सृपश्च स्वरात्परो धुडादौ प्रत्यये अदन्तो वा स्यात् अकिति । स्पष्टा । स्पर्श । भ्रष्टा । मष्ट । ऋष्टा । क । त्रता । तर्मा । हप्ता । दप्ती । खप्ता । सप्त ॥ ११२ ॥