SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ सोशलति। हस्वस्य तः पित्कृति ।४।४।११३ । हस्वान्तस्य धातोः पिति कृति त अन्तः स्यात् । जगत् । इस्वस्येति किम् । मामणीः । कृतीति किम् । अजुहवुः ॥ ११३ ॥. अतो म आने । ४।४।११४। धातोर्विहिते आने अतो मोऽन्तः स्यात् । पचमानः । अत इति किम् । शयानः ॥११४॥ आसीनः । ४।४।११५। ... आस्तेः परस्यानस्यादेरीनिंपात्यते। सीनः। उदासीनः ॥ ११५॥ ऋतां क्ङितीर् । ४।४।११६ । अदन्तस्य धातोः विङति प्रत्यये ऋत इर् स्यात् । तीर्णम्। किरति॥ ओष्ठ्यादुर्।४।४।४।११७। धातोरोठ्यात्परस्य ऋतः कित्युर् स्यात् । पूः । भूर्षति । बुवूर्षते ॥ ११७ ॥ इसासः शासोऽब्यञ्जने।४।४।११८। शास्तेःशस्यासोऽडि रितिव्यञ्जनादौ च परे इस्स्यात् । अशिषत् । शिष्टः । अव्यञ्जन इति किम् । शासति ॥ ११८॥ क्वौ । ४।४।११९ । शास आसः को इस्स्यात् । मित्रशीः ॥ ११९ ॥ आङः। ४।४।१२० । आऊ परस्य शास आसः कावेव इस्स्यात् । आशी। कावित्येव । आशास्ते ॥ १२०॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy