________________
प
१७७
उदितः स्वरान्नोऽन्तः । ४ । ४ । ९८ ।
उदितो धातोः स्वरात्परो न् अन्तः स्यात् । नन्दति । कुण्डा ॥९८॥
मुचादितृफदृफगुफशुभोऽभः शे । ४ । ४ । ९९ ।
एषां शे परे स्वरान्नोऽन्तः स्यात् । मुञ्चति । पिंशति । तृम्फति । दस्फति । गुम्फति । शुम्भति । उम्मति ॥ ९९ ॥ जभः स्वरे । ४ । ४ । १०० ।
जः स्वरात्परः स्वरादौ प्रत्यये नोऽन्तः स्यात् । जम्भः ॥१००॥
रध इटि तु परोक्षायामेव । ४ । ४ । १०१ ।
रधः स्वरात्परः स्वरादौ प्रत्यये नोऽन्तः स्यात् इडादौ तु परोक्षायामेव । रन्धः । ररन्धिव । परोक्षायामेवेति किमु । रधिता ॥ १०१ ॥
रभोऽपरोक्षाशवि । ४ । ४ । १०२ ।
रमेः स्वरात्परः परोक्षाशव्वर्जे स्वरादौ प्रत्यये न् अन्तः स्यात् । आरम्भः । अपरोक्षाशवीति किम् । आरे । आरभते ॥ १०२ ॥ लभः । ४ । ४ । १०३ ।
लभः स्वरात्परः परोक्षाशव्वर्जे स्वरादौ प्रत्यये न् अन्तः स्यात् । लम्भकः ॥ १०३ ॥
आङो यि । ४ । ४ । १०४ ।
आङः परस्य लभः स्वरात्परो यादौ प्रत्यये न् अन्तः स्यात् । आलम्भ्या गौः । यीति किम । आलब्धाः ॥ १०४ ॥
उपात्स्तुतौ । ४ । ४ । १०५ ।
उपात्परस्य लभः स्वरात्परो यादौ प्रत्यये स्तुतौ गम्यायां र अन्तः स्यात् । उपलम्भ्या विद्या । स्तुताविति किम् । उपलम्या वार्त्ता ॥ १०५॥