________________
स्वोपज्ञलघुवृत्तिः
२७५
एभ्यः परस्मैपदे सिच आदिरिट् स्यात् । अधावीत् । असावीत् । अस्तावीत् । परस्मै इति किम् । अघोष्ट ॥ ८५ ॥ यमिरमिनम्यातः सोऽन्तश्च |४|४|८६ |
एम्य आदन्तेभ्यश्च परस्मैपदे सिच आदिरिट् स्यात् । एषां च सन्तः । अयंसीत् । व्यरंसीत् । अनंसीत् । अयासिष्टाम् ॥ ८६ ॥
ईशीडः सेध्वेस्वध्वमोः । ४ । ४ । ८७ ।
आभ्यां वर्त्तमाना सेध्वयोः पञ्चमी स्वध्वमोश्चादिरिद स्यात् । ईशिषे । ईशिध्वे । ईशिष्व । ईशिध्वम् । ईडिषे । ईडिध्वे । ईडिष्व । ईडिध्वम् ॥
रुत्पञ्चकाच्छिदयः ॥ ४ । ४ । ८८ ।
रुदादेः पचतः परस्य व्यञ्जनादेः शितोऽयादेरादिरिद्र स्यात् । रोदिषि । स्वपिषि । प्राणिति । श्वसिति । जक्षिति । अयिति किम् । रुद्यात् । शित इति किम् । रोत्स्यति । स्वप्स्यति ॥ ८८ ॥
दिस्योरीट् । ४ । ४ । ८९ ।
रुत्पञ्चकात् दिस्योः शितोरादिरीद स्यात् । अरोदीत् । अरोदीः॥८९॥ अदश्चाट् । ४ । ४ । ९० ।
अत्तेरुत्पथकाच दिस्योः शितोरादिरद स्यात् । आदत् । आदः । अरोदत् । अरोदः ।। ९० ॥
संपरेः कृगःस्सट् । ४ । ४ । ९१ ।
आभ्यां परस्य कग आदिस्सद स्यात् । संस्करोति कन्याम् । परिष्करोति ॥ ९१ ॥
उपाद्भूषासमवायप्रतियत्नविकारवाक्या
BREE