________________
१२७३
स्वोपज्ञलपुष्पत्तिः। श्वसजपवमरुषत्वरसंधुषास्व
नामः। ४।४।७५ । एभ्यः क्तयोरादिरिट् वा न स्यात् । श्वस्तः। श्वसितः। विश्वस्तवान्। विश्वासितवान् । जप्तः। जप्तवान् । जपितः। जापतवान् । वान्तः। वान्तवान्। वमितः । वमितवान् । रुष्टः। रुष्ट्वान । रुषितः। रुषितवान ।तूर्णः। तूर्णवान। त्वरितः। त्वरितवान् । संघुष्टौ संघुषितौ दम्यौ । संघुष्टवान् । संघुषितवान्। आस्वान्तः। आस्वनितः । आस्वान्तवान् । आस्खनितवान् । अभ्यान्तः। अभ्यान्तवान् । अभ्यमितः। अभ्यमितवान् ॥ ७५ ॥ दृषेः केशलोमविस्मयप्रतिघाते।४।४।७६। .. हषेः केशाद्यर्थेषु तयोरादिरिट् वा न स्यात् । हृष्टाः । हृषिताः केशाः। दृष्टं हृषितं लोमभिः। दृष्टो दृषितश्चैत्रः। हृष्टाः हृषिता दन्ताः॥७६॥
अपचितः। ४।४। ७७। अपाच्चायेक्तान्तस्य इडभावश्चिश्व निपात्यते वा । अपचितः। अपचायितः॥ ७७ ॥ सृजिशिस्कृस्वराऽत्वतस्तृग्नित्यानिट
स्थवः। ४।४। ७८ । , सृजिदृशिभ्यां स्कृगः स्वरान्तादत्वतश्च वृचि नित्यानिटोविहितस्य थव आदिरिट् वा न स्यात् । सस्रष्ठ । ससर्जिथ। दद्रष्ठ ।ददर्शिथ । सञ्चस्कर्थ । सञ्चस्करिथ । ययाथ । ययिथ । पपक्थ । पेचिथ । तृनित्या निट इति किम् । रन्धिथ । शिश्रयिथ । विहितविशेषणं किम् । चकर्षिथ ॥ ७८॥ .
ऋतः।४।४।७९।