________________
२७२
हैमशन्दानुशासनस्य क्षुब्धविरिब्धस्वान्तध्वान्तलग्नम्लिष्टफाण्टबाढपरिवृढं मन्थस्वरमनस्तमःसक्ता
ऽस्पष्टाऽनायासभृशप्रभौ।४।४।७०। - एते तान्ता मन्थादिष्वर्थेषु यथासङ्ख्यमनिटो निपात्यन्ते। क्षुब्धः समुद्रः । क्षुब्ध वल्लवैः। विरिब्धः स्वरः। स्वान्तं मनः। ध्वान्तं तमः। लमं सक्तम् । म्लिष्टमस्पष्टम् । फाण्टमनायाससाध्यम् । बाढं भृशम् । परिवृढः प्रभुः ॥ ७॥
आदितः । ४।४।७१। आदितोधातोः परयोः क्तयोरादिरिद न स्यात् । मिनः । मिन्नवान ॥ ७१ ॥
नवा भावारम्भे।४।४।७२।
आदितोधातो वारम्भार्थयोः क्तयोरादिरिद वान स्यात् । मिन्नम्। मेदितम् । प्रमिन्नः । प्रमिन्नवान् । प्रमेदितः । प्रमेदितवान् ॥ ७२ ॥
शकः कर्मणि । ४।४।७३। शकेः कर्मणि क्तयोरादिरिट् वा न स्यात् । शक्तः । शकितो वा घटः कर्तुम् ॥ ७३ ॥ णौ दान्तशान्तपूर्णदस्तस्पष्टच्छन्न
ज्ञप्तम् । ४।४। ७४ । दमादीनां णौ क्तान्तानामेते वा निपात्यन्ते । दान्तः । दमितः। शान्तः। शमितः। पूर्णः। पूरितः। दस्तः। दासित स्पष्टः। स्पाशितः। छन्नः। छादितः। ज्ञप्तः। ज्ञापितः ॥ ७४॥