________________
स्वोपज्ञलघुवृत्तिः ।
२७१
एभ्यः परादर्देः परयोः क्तयोरादिरिद्रन स्यात् । समर्णः । समर्णवान् । न्यर्णः न्यर्णवान् । व्यर्णः । व्यर्णवान् । संनिवेरिति किम् । अर्दितः ॥ ६३ ॥
अविदूरेऽभेः । ४ । ४ । ६४ ।
अभेः परादर्देः परयोः क्तयोरविदूरेऽर्थे आदिरिट् न स्यात् । अभ्यर्णः। अभ्यर्णवान् । अविदूर इति किम् । अभ्यर्दितो दीनः शीतेन ॥ ६४ ॥ वृत्तेर्वृत्तं ग्रन्थे । ४ । ४ । ६५ ।
वृत्तेर्ण्यन्तात् क्ते वृत्तं ग्रन्थविषये निपात्यते । वृत्तो गुणश्छात्रेण । ग्रन्थइति किम् । वर्त्तितं कुङ्कुमम् ॥ ६५ ॥ धूपशसः प्रगल्भे । ४ । ४ । ६६ ।
आभ्याम्परयोः क्तयोरादिः प्रगल्भ एवार्थ इद न स्यात् । धृष्टः । विशस्तः । प्रगल्भ इति किम् । धर्षितः । विशसितः ॥ ६६ ॥
कषः कृच्छ्रगहने । ४ । ४ । ६७ ।
अनयोरर्थयोः कषेः परयोः क्तयोरादिस्ट्रि न स्यात् । कष्टं दुःखम् । कष्टोऽग्निः । कष्टं वनं दुरवगाहम् । कृच्छ्रमहन इति किम । कषितं स्वर्णम् ॥ ६७ ॥
घुषेरविशब्दे । ४ । ४ । ६८ ।
अविशब्दार्थात् घुषेः परयोः क्तयोरादिरिद्र न स्यात् । घुष्टा रज्जुः। घुष्टवान् । अविशब्द इति किम । अवधुषितं वाक्यम् ॥ ६८ ॥
बलिस्थूले दृढः । ४ । ४ । ६९ ।
बलिनि स्थूले चार्थे दृहें हेर्वा कान्तस्य दृढो निपात्यते । दृढः बलि स्थूल इति किम्। दृहितम् । हंहितम् ॥ ६९ ॥