SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ २७० हैमशब्दानुशासनस्य ___ एकस्वरादनुस्वारेतोधातोर्विहितस्य स्तायशित आदिरिद न स्यात् । पाता । एकस्वरादिति किम् । अवधीत् ॥ ५६ ॥ ऋवर्ण,यूर्णगः कितः। ४।४।५७। ऋवर्णान्ताद्धातोः श्रेहोश्च एकस्वरादिहितस्य कित आदिरिद न स्यात् । वृतः । ती । श्रितः। ऊर्तृत्वा । एकस्वरादित्येव । जागरितः । कित इति किम् । वरिता ॥ ५७ ॥ उवर्णात् । ४।४।५८। - उवर्णान्तादेकस्वराद्विहितस्य कित आदिरिद न स्यात् । युतः।लूनः। कितइत्येव । यविता । लविता ॥ ५८॥ ग्रहगुहश्च सनः।४।४।५९। आभ्यामुवर्णान्ताच विहितस्य सन आदिरिद् न स्यात् । जिघृक्षति । जुघुक्षति । रुरूषति ॥ ५९॥ । स्वार्थे । ४।४।६०। स्वार्थार्थस्य सन आदिरिद न स्यात् । जुगुप्सते ॥६० ॥ डीयश्व्यैदितः क्तयोः।४।४।६१। डीयतेः श्वेरैदियःश्च धातुभ्यः परयोःक्तक्तवत्वोरादिरिद न स्यात्। डीनः । डीनवान् । शूनः । शूनवान् । त्रस्तः । त्रस्तवान् ॥ ६१ ॥ वेटोऽपतः । ४।४।६२। अपतो विकल्पितेटो धातोरेकस्वरात्परयोः क्तयोरादिरिद् न स्यात् । रद्धः । रद्धवान् । अपत इति किम् । पतितः ॥ ६२॥ सन्निवेरर्दः। ४।४।६३।।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy