SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः । २६९ कृतचृतनृतच्छृदृतृदोऽसिचः सादेव | ४|४|५०। एभ्यः परस्यासिचः सादेस्ताद्यशित आदिरिट् वा स्यात् । कर्त्स्यति । कर्त्तिष्यति । चिचृत्सति । चिचर्त्तिषति । नर्त्स्यति । नर्त्तिष्यति । अच्छस्र्यत् । अच्छर्दिष्यत् । तितृत्सति । तितर्दिषति । असिच इति किम् । अकर्त्तीत् ॥ ५० ॥ गमोऽनात्मने । ४ । ४ । ५१ । गमः परस्य स्ताद्यशितः सादेरिट् स्यात् नत्वात्मनेपदे । गमिष्यति । अधिजिगमिषिता शास्त्रस्य । अनात्मने इति किम् । संगंसीष्ट ॥ ५१ ॥ स्नोः । ४ । ४ । ५२ । स्नोः परस्य स्ताद्यशितो अनात्मनेपदे आदिरिद् स्यात् । प्रस्नविष्यति । अनात्मन इत्येव । प्रास्नोष्ट ॥ ५२ ॥ क्रमः । ४ । ४ । ५३ । क्रमः परस्य स्ताद्यशित आदिरिद्र स्यात् अनात्मनेपदे । ऋमि. ष्यति । प्रक्रमितुम् | अनात्मन इत्येव । प्रक्रंस्यते ॥ ५३ ॥ तुः । ४ । ४ । ५४। अनात्मनेपदविषयात्क्रमः परस्य वस्ताद्यशित आदिरिट् स्यात् । क्रमिता । अनात्मन इत्येव । प्रक्रन्ता ॥ ५४ ॥ न वृद्भयः । ४ । ४ । ५५ । वृदादिपञ्चकात् परस्य स्ताद्यशित आदिरिद् न स्यात् नचेदसावात्मनेपदनिमित्तम् । वत्स्र्त्स्यति । विवृत्सति । स्यन्त्स्यति । सिस्यन्त्सति ॥ एकस्वरादनुस्वारेतः । ४ । ४ । ५६ ।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy