SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ हेमशब्दानुशासनस्य पूक्लिशिभ्यां च परेषां क्तक्तवतुक्त्वामादिरिङ् वा स्यात् । पूतः । पूतवान् । पूत्वा । पवितः । पवितवान् । पवित्वा । क्लिष्टः । क्लिष्टवान् । क्लिष्ट्वा । क्लिशितः । क्लिशितवान् । क्लिशित्वा ॥ ४५ ॥ २६८ सहलुभेच्छरुषरिषस्तादेः । ४ । ४ । ४६ । एभ्यः परस्य स्ताद्यशितस्तादेरिट् वा स्यात् । सोढा । सहिता । लोग्धा । लोभिता । एष्टा । एषिता । रोष्टा । रोषिता । रेष्टुम् । रेषितुम् ॥ ४६ ॥ इवृधभ्रस्जदम्भश्रियणुभरज्ञपिसनितनिपतिवृद्दरिद्रः सनः । ४ । ४ । ४७। इवन्तात् ऋधादिभ्य ऋदन्तेभ्योदरिद्रश्च परस्य सन आदि रिट् वा स्यात् । दुद्यूषति । दिदेविषति । ईर्त्सति । अर्दिधिषति । बिभर्क्षति । बिभर्जिषति । धिप्सति । धीप्सति । दिदम्भिषति । शिश्रीषति । शिश्रयिषति । पति । यियविषति । प्रोष्णुनूषति । प्रोणुनविषति । बुभूषति । बिभरिषति । ज्ञीप्सति । जिज्ञपयिषति । सिषासति । सिसनिषति । तितंसति । तितनिषति । पित्सति । पिपतिषति । प्रावुवुर्षति । प्रविव. रिषति । ववर्षते । विवरीषते । तितीर्षति । तितरीषति । दिदरिद्रासति । दिदरिद्रिषति ॥ ४७ ॥ ऋस्मिपूङञ्जशौकॄगृदृधृप्रच्छः।। ४ । ४ । ४८ । एभ्यः परस्य सनआदिरिद् स्यात् । अरिरिषति । सिस्मयिषति । पिपविषते । अजिजिषति । अशिशिषते । चिकरीषति । जिगरीषति । आदिदरिषते । आदिधरिषते । पिपूच्छिषति ॥ ४८ ॥ हनृतः स्यस्य । ४ । ४ । ४९ । हन्तेः ऋदन्ताच्च परस्य स्यस्यादिरिद स्यात् । हनिष्यति । करिष्यति ।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy