SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः । धूगौदितः । ४ । ४ । ३८ । धूग् औदितश्च परस्य स्ताद्यशित आदिरिद वा स्यात् । धोता । धविता । रद्धा । रधिता ॥ ३८ ॥ निष्कुषः । ४ । ४ । ३९ । निःपूर्वात् कुषः परस्य स्ताद्यशित आदिरिद वा स्यात् । निष्कोष्टा । निष्कोषिता ॥ ३९ ॥ क्तयोः । ४ । ४ । ४० । निष्कुषः परयोः क्तयोरादिरिद्र नित्यं स्यात् । निष्कुषितः । निष्कुषितवान् ॥ ४० ॥ २६७ नृ॒त्रश्चः क्त्वः । ४ । ४ । ४१ । आभ्यां परस्य क्त्व आदिरिट् स्यात् । जरीत्वा । त्रचित्वा ॥ ४१ ॥ ऊदितो वा । ४ । ४ । ४२ । ऊदितः परस्य क्त्व आदिरिद वा स्यात् । दान्त्वा । दमित्वा ||४२ || क्षुधवसस्तेषाम् । ४ । ४ । ४३ । आभ्यां परेषां क्तक्तवतु क्त्वामादिरिद स्यात् । क्षुधितः । क्षुधितवान् । क्षुधित्वा । उषितः । उषितवान । उषित्वा ॥ ४३ ॥ लुभ्यञ्चेर्विमोहार्चे । ४ । ४ । ४४ । आभ्यां यथासङ्ख्यं विमोहनपूजार्थाभ्यां परेषां क्तक्तवतुक्त्वामादिरिट् स्यात् । विलुभितः । विलुभितवान् । लुभित्वा । अञ्चितः । अञ्चितवान् । अञ्चित्वा । विमोहाच इति किम | लुब्धो जाल्मः । उदक्त जलम् ॥ ४४ ॥ पुक्लिशिभ्यो नवा । ४ । ४ । ४५ ।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy