SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ २६६ हैमशब्दानुशासनस्य लविष्यति । लविता । स्तादीति किम् । भूयात् । अशित इति किम् आस्से । अत्रोणादेरिति किम् । शस्त्रम् । वत्सः । हस्तः ॥ ३२ ॥ तेहादिभ्यः । ४।४।३३। एभ्य एव परस्य स्तायशितस्तेरादिरिद स्यात् । निग्रहीतिः। अपस्निहितिः । ग्रहादिभ्य इति किम् । शान्तिः ॥ ३३ ॥ गृहोऽपरोक्षायां दीर्घः ।४।४।३४। ग्रहेर्योविहित इट् तस्य दीर्घः स्यात् नतु परोक्षायाम् । ग्रहीता। अपरोक्षायामिति किम् । जगृहिव ॥३४॥ वृतो नवा ऽनाशीः सिच्परस्मै च। ४।४।३५। वृभ्यामृदन्तेभ्यश्च परस्येटोदीर्घोवा स्यात् नतु परोक्षाशिषोः सिचि चे परस्मैपदे । प्रावरीता । प्रावरिता । वरतिा। वरिता । तितरीषति । तितरिषति । परोक्षादिवर्जनं किम् । ववरिथ । तेरिथ । प्रावरिषीष्ट । आस्तरिषीष्ट । प्रावारिषुः । आस्तारिषुः ॥ ३५॥ इटसिजाशिषोरात्मने । ४।४।३६। वृतः परयोरात्मनेपदविषये सिजाशिषोरादिरिट् वा स्यात् ।प्रावृत। प्रावरिष्ट । अवृत । अवरीष्ट । आस्तीर्ट । आस्तरिष्ट । प्रावृषीष्ट । प्रावरिषीष्ट । वृषीष्ट । वरिषीष्ट । आस्तीर्षीष्ट । आस्तरिषीष्ट । आत्मने इति किम् । प्रावारीत् ॥ ३६॥ संयोगादतः । ४।४।३७। धातोः संयोगात्परोय ऋत्तदन्तात्परयोरात्मनेपदविषयशिजाशिषोरादिरिट् वा स्यात् । अस्मरिषाताम् । अस्मृषाताम् । स्मरिषीष्ट। स्मृषीष्ट । संयोगादिति किम् । अकृत ॥ ३७॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy