SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः । गाः परोक्षायाम् । ४ । ४ । २६ इङः परोक्षाविषये गाः स्यात् । अधिजगे ॥ २६ ॥ णौ सन्डे वा । ४ । ४ । २७। सनके परे णौ इङो गा वा स्यात् । अधिजिगापयिषति । अध्यापिपयिषति । अध्यजीगपत् । अध्यापिपत् । णाविति किम् । अधिजिगांसते । सन्ङ इति किम् । अध्यापयति ॥ २७ ॥ वाऽद्यतनीक्रियातिपत्त्योर्गीङ् | ४|४|२८| २६५ अनयोरिङोगीङ वा स्यात् । अध्यगीष्ट । अध्यैष्ट । अध्यगीष्यत । अध्येष्यत ॥ २८ ॥ अधातोरादिर्ह्यस्तन्यां चामाङा | ४|४|२९| ह्यस्तन्यामद्यतनी क्रियातिपत्त्योश्च विषये धातोरादिरड् स्यात् तु माङ्योगे । अयात् । अयासीत् । अयास्यत् । अमाङेति किम् । मास्मकार्षीत् । धातोरिति किम् । प्रायाः ॥ २९ ॥ एत्यस्तेर्वृद्धिः । ४ । ४ । ३० । माङा । इणि कोरस्तेश्वादेर्ह्यस्तन्यां विषये वृद्धिः स्यात् नतु आयन् । अध्यायन् । आस्ताम् । अमात्येव । मास्म ते यन् ॥ ३० ॥ स्वरादेस्तासु । ४ । ४ । ३१ । स्वरादेर्धातोरादेरद्यतन्यां क्रियातिपत्तिह्यस्तनीषु विषये वृद्धिः स्यात् अमाङा । आटीत् । ऐषिष्यत् । औज्झत् । अमाङेत्येव। मा सो टीत् ॥ ३१ ॥ स्ताद्यशितोऽत्रोणादेरिट् । ४ । ४ । ३२ । धातोः परस्य सादेस्तादेश्चाऽशित आदिरिद स्यात् नतु त्रोणाद्योः। ३४
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy