SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ २६४ हैमशन्दानुशासनस्य परोक्षायां नवा । ४ । ४ । १८ । अदेः परोक्षायां घस्लृरादेशो वा स्यात् । जक्षुः । आदुः ॥ १८ ॥ वेर्वय् । ४ । ४ । १९। वेगः परोक्षायां वय् वा स्यात् । ऊयुः । ववुः ॥ १९ ॥ ऋः शृद्दृप्रः। ४ । ४ । २० एषां परोक्षायामृर्वा स्यात् । विशश्रतुः । विशशरतुः । विदद्रतुः। विददरतुः । निपप्रतुः । निपपरतुः ॥ २० ॥ हनो वध आशिष्यऽञौ । ४ । ४ । २१ । आशीर्विषये हन्तेर्वधः स्यात् नतु ञिटि । वध्यात् । अत्राविति किम् । घानिषीष्ट ॥ २१ ॥ अद्यतन्यां वा त्वात्मने । ४ । ४ । २२ । अद्यतन्यां विषये हनोवधः स्यात् आत्मनेपदे तु वा । अवधीत् । अवधिष्ट । आहत ॥ २२ ॥ इणिकोर्गा । ४ । ४ । २३ । इणिकोरतन्यां गाः स्यात् । अगात् । अध्यगात् ॥ २३ ॥ ४ । २४। णावज्ञाने गमुः । ४ । इणिकरज्ञानार्थयोगमुः स्यात् । गमयति । अधिगमयति । अज्ञान इति किम् । अर्थान् प्रत्याययति ॥ २४ ॥ सनीङश्च । ४ । ४ । २५ । इङ इणिकोश्चाज्ञानार्थयोः सनि ममुः स्यात् । अधिजिगांसते । जिगमिषति ग्रामम् । मातुरधिजिगमिषति ॥ २५ ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy