________________
२६२
हेमशन्दानुशासनस्य
त्रने वा ।४।४।३। त्रनयोर्विषयभूतयोरजेर्वी वा स्यात् । प्रवेता। प्राजिता। प्रवयणः। पाजनो दण्डः ॥३॥
चक्षोवाचि कशाग् ख्यांग।४।४।४। चक्षोवागर्थस्याशिति विषये कशांगख्यांगौ स्याताम् । आकशास्यति । आक्शास्यते । आख्यास्यति । आख्यास्यते । आक्शेयम् । आख्येयम् । वाचीति किम् । बोधे विचक्षणः ॥ ४ ॥
नवा परोक्षायाम् ।४।४।५। वक्षोवाचिकशांगल्यांगौ परोक्षायां वा स्याताम् । आचक्शौ । आचख्यो । आचचक्षे ॥ ५ ॥
भृज्जोभर्ज ।४।४।६। मृजतेरशिति भर्ज वा स्यात् । भर्टा भ्रष्टा ॥ ६ ॥ प्रादागस्त्त आरम्भेक्ते।४।४।७।
आरम्भार्थस्य प्रपूर्वस्य दागः क्ते परे तो वा स्यात् । प्रत्तः। प्रदत्तः। पादिति किम् । परीत्तम् ॥ ७ ॥
निविस्वन्ववात् ।४।४।८। एभ्यः परस्य दागः क्ते तो वा स्यात् । नीत्तम् । निदत्तम् । वीत्तम्। विदत्तम्। सूत्तम् । सुदत्तम् । अनूत्तम् । अनुदत्तम् । अवत्तम् । अवदत्तम् ॥
स्वरादुपसर्गादस्तिकित्यधः।४।४।९।
स्वरान्तादुपसर्गात्परस्य धावर्जस्य दासंज्ञस्य तादौ किति तो नित्यं स्यात् । प्रत्तः। परीत्रिमम् । उपसर्गादिति किम् । दधिदत्तम् । स्वरादिति किम् । निर्दत्तम् । द इति किम् । प्रदाता बीहयः। तीति किम् । प्रदाय । अध इति किम् । निधीतः ॥९॥