SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलवृत्तिः २३१· अवणीन्तस्य क्यान ई: स्यात् । पुत्रीयति । मालीयति ॥ ११२ ॥ नुतृड्गर्दे ऽशनायोदन्यधनायम् । ४।३।१९३। वर्थेषु यथासङ्ख्यमशनादयः क्यन्नन्ता निपात्यन्ते । अशनायति । उदन्यति । धनायति । क्षुदादाविति किम् । अशनीयति । उदकीयति । धनीयति दातुम् ॥ ११३ ॥ वृषाश्वान्मैथुने स्सोऽन्तः । ४।३।११४। आभ्यां मैथुनार्थाभ्यां क्याने स्सान्तः स्यात् । वृषस्यति गौः । अश्वस्यति वडवा | मैथुने इति किम् । वृषीयति । अश्वीयति ब्राह्मणी ॥ अश्च लौल्ये । ४ । ३ । ११५ । भोगेच्छातिरेको लौल्यं तत्र गम्ये क्यनि परे नाम्नः स्सोऽसचान्तः स्यात् । दधिस्यति । दध्यस्यति । लौल्य इति किम । क्षीरयति दातुम् ॥ ११५ ॥ इत्याचार्यहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ चतुर्थस्याऽध्यायस्य तृतीयः पादः समाप्तः । ॥ अर्हम् ॥ अस्ति ब्रुवोर्भूवचावशिति । ४ । ४ । १ । अस्तिब्रुवोर्यथासङ्ख्यं भूवचौ स्यातां अशिति विषये । भव्यम् । अवोचत् । अशितीति किम् । स्यात् । ब्रूते ॥ १ ॥ अघञक्यबलच्यजेर्वी । ४ । ४ । २ । अघनादावशिति विषये अजेवीं स्यात् । प्रवेयम् । अघञ्क्यबलचीति किम् । समाजः । समज्या । उदजः । अजः पशुः ॥ २ ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy