SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ २६० हैमशब्दानुशासनस्व . शीङ क्लिति यादौ शय् स्यात् । शय्यते । शाशय्यते । विङीति किम् । शेयम् ॥ १०५॥ उपसर्गाहो हस्वः। ४।३।१०६ । उपसर्गात्परस्योहतेरूतः विङति यादौ परे हस्वः स्यात् । समुह्यते। उपसर्गादिति किम् । ऊह्यते । यीत्येव । समूहितम् । ऊ ऊह इति प्रश्लेषः किम् । आउद्यते ओह्यते । समोह्यते ॥ १०६ ॥ - आशिषीणः। ४।३।१०७। उपसर्गात्परस्येण ईतः क्ङिति यादावाशिषि इस्वः स्यात् । उदियात् । ई इण इति प्रश्लेषः किम् । आ इयात् एयात् । समेयात् ॥ दीर्घश्च्वियङ्यक्येषु च।४।३।१०८। एषु यादावाशिषि च दीर्घः स्यात् । शुचीकरोति । तोट्यते । मन्त्रयति । दधीयति । भृशायते ।लोहितायते । स्तूयते । ईयात् ॥१०॥ ऋतोरीः। ४।३।१०९।। व्यादौ परे ऋदन्तस्य ऋतः स्थाने रीः स्यात् । पित्रीस्यात् । चेक्रीयते । मात्रीयते । पित्रीयते । ऋत इति किम् । चेकीर्यते ॥ १०९॥ रिः शक्याशीय । ४।३।११०। ऋदन्तस्य धातोः ऋतः शक्ये आशीर्ये च परे रिः स्यात् । व्याप्रियते । क्रियते । हियात् ॥ ११०॥ ईश्च्वाववर्णस्याऽनव्ययस्य।४।३।१११॥ अनव्ययस्यावर्णान्तस्य च्वावीः स्यात् । शुक्लीस्यात् । मालीस्यात् । अनव्ययस्येति किम् । दिवाभूता रात्रिः ॥ १११॥ .. क्यनि ।४।३।११२।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy