________________
२५८
हेमशन्दानुशासनस्य क्षय्यजय्यौ शक्तौ । ४।३।९० । क्षिज्योरन्तस्य शक्तौ गम्यायां ये प्रत्ययेऽय् निपात्यते । क्षय्यो व्याविः। जय्यः शत्रुः। शक्ताविति किम् । क्षेयं पापम् । जेयं मनः॥१०॥
क्रय्यः क्रयार्थे । ४।३। ९१। क्रियोऽन्तस्य ये प्रत्ययेऽय निपात्यते । कयाय चेत्प्रसारितोऽर्थः । ऋग्यो गौः । क्रयार्थ इति किम् । क्रेयं ते धान्यं न चास्ति प्रसारितम्।।
सस्तः सि।४।३। ९२ । धातोः सन्तस्याऽशिति सादौ प्रत्यये विषयभूते तः स्यात् । वत्स्यति । स इति किम् । यक्षीष्ट । सीति किम् । वसिषीष्ट ॥ ९२ ॥ दीय दीङः क्ङिति स्वरे।४।३।९३।।
दीङ क्ङिति अशिति स्वरे दीय् स्यात् । उपदिदीयते। विङतीति किम् । उपदानम् । स्वर इति किम् । उपदेदीयते ॥ ९३ ॥
इडेत्पुसि चातोलक्। ४।३।९४।
विडत्यशिति स्वरे इटि एति पुसि च परे आदन्तस्य धातोर्मुक् स्यात् । पपुः। अदधत् । पपिथ । व्यतिरे। अदुः ॥९४॥
संयोगादेर्वा शिष्यः । ४।३।९५।
धातोः संयोगादेरादन्तस्य विडत्याशिषि एर्वा स्यात् । ग्लेयात् । ग्लायात् । संयोगादेरिति किम् । यायात् । विङतीत्येव । ग्लासीष्ट ॥
गापास्थासादामाहाकः । ४।३।९६।
एषां विडत्याशिष्यः स्यात् । गेयात् । पेयात् । स्यात् । अवसेयात् । देयात् । धेयात् । मेयात् । हेयात् ॥ ९६ ॥
ईर्व्यञ्जनेऽयपि । ४।३।९७।