SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः अतः । ४ । ३ । ८२ । अदन्ताद्धातोर्विहितेऽशिति प्रत्यये धातोरतो लुक् स्यात् । कथयति । विहितविशेषणं किम् । गतः ॥ ८२ ॥ णेरनिटि । ४ । ३ । ८३ । अनिशिति प्रत्यये गेर्लुक् स्यात् । अततक्षत् । चेतन । अनिटीति किम् । कारयिता ॥ ८३ ॥ सेट्क्तयोः । ४ । ३ । ८४ । सेटोः क्तयोः परयोर्णेर्लुक् स्यात् । कारितः । गणितवान् ॥ ८४ ॥ आमन्ताल्वाय्येत्नावय् । ४ । ३ । ८५ । एषु परेषु रय् स्यात् । कारयाञ्चकार । गण्डयन्तः । स्पृहयालुः । महयाय्यः । स्तनयित्नुः ॥ ८५ ॥ लघोर्यपि । ४ । ३ । ८६ । लघोः परस्य णेर्यप्यय् स्यात् । प्रशमय्य । लघोरिति किम् । प्रतिपाद्य ॥ ८६ ॥ वाऽऽप्नोः । ४ । ३ । ८७ । आप्नोः परस्य णेर्यप्यऽय् वा स्यात् । प्रापय्य । प्राप्य । आप्नो - रिति किम् । अध्याप्य ॥ ८७ ॥ मेडो वा मित् । ४ । ३ । ८८ । मेङो यपि मिद्धा स्यात् । अपमित्य । अपमाय ॥ ८८ ॥ क्षेः क्षीः । ४ । ३ । ८९ । क्षेर्यपि क्षीः स्यात् । प्रक्षीय ॥ ८९ ॥ ३३
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy