________________
हेमशब्दानुशासनं स्प
यङ्तुरुस्तोर्बहुलम् । ४ । ३ । ६४ ।
यङ्लुबन्तात्तुरुस्तुभ्यश्च परो व्यञ्जनादौ वितिईत बहुलं परादिः स्यात् कचिद्वा । बोभवीति । बोभोति । क्वचिन्न । वर्वर्त्ति । तवीति । तौति । खीति । रौति । स्वीति । स्तौति । अद्वेरित्येव । तुतोथ । तुष्टोथ ॥ ६४ ॥
सः सिजस्तेर्दिस्योः । ४ । ३ । ६५ ।
२५४
सिजन्ताद्धातोरस्तेश्च सन्तात्परो दिस्योः परयोः परादिरीत्स्यात् । अकार्षीत् । अकार्षीः । आसीत् । आसीः । स इति किम् । अदात् ।। ६५ ।।
पिबैतिदाभूस्थः सिचोलुप परस्मै न चेट् । ४ । ३ । ६६ ।
एभ्यः परस्य सिचः परस्मैपदे लुप स्यात् लुव्योगे नचेट् । अपात् । अगात् । अध्यगात् । अदात् । अधात् । अभूत् । अस्थात् । परस्मैपद इति किम् । अपासत पयांसि तैः ॥ ६६ ॥
ट्वेघ्राशाच्छासो वा । ४ । ३ । ६७ ।
एभ्यः परस्य सिचः परस्मैपदे लुब वा स्यात् लुब्योगे च नेट् । अधात् । अधासीत् । अत्रात् । अत्रासीत् । अशात् । अशासीत् । अच्छात् । अच्छासीत् । असात् । असासीत् ॥ ६७॥
तन्भ्योवा तथासि न्णोश्च । ४ । ३ । ६८ ।
तनादिभ्यः परस्य सिचस्तथासिच छुप वा स्यात्तद्योगेन्णोश्च लुप्न चेट् । अतत । अतनिष्ट । अतथाः । अतनिष्ठाः । असत । असनिष्ट | असथाः । असनिष्ठाः ॥ ६८ ॥