SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ स्वोपहलघुवृत्तिा। २५३ विश्रम । ४।३।५६।। विश्रमेणिति कृति मौ च वृद्धिर्वा स्यात् । विश्रामः । विश्रमः । विश्रामकः । विश्रमकः । व्यामि । व्यश्रमि ॥ ५६॥ उद्यमोपरमौ।४।३।५७। उदुपाभ्यां यमिरम्योर्घत्रि वृद्ध्यभावो निपात्यते । उद्यमः।उपरमः॥५७॥ णिद्वाऽन्त्यो णव् । ४।३।५८॥ परोक्षाया अन्त्यो णव् णिवा स्यात् । अहं चिचय। चिचाय। चुकुट। चुकोठ । अन्त्य इति किम् । स पपाच ॥ ५८॥ उतऔर्वितिव्यञ्जनेऽद्वेः । ४।३१५९ । अद्वयुक्तस्योदन्तस्य धातोर्व्यञ्जनादौ विति और स्यात् । यौति । उत इति किम् । एति । धातोरित्येव । सुनोति । वितीति किम् । रुतः। व्यञ्जन इति किम् । स्तवानि । अद्वेरिति किम् । जुहोति ॥ ५९॥ वोर्णोः। ४।३ । ६० । ऊोरदयुक्तस्य व्यञ्जनादौवित्यौर्वा स्यात् । पोर्णोति। प्रोति । अरेरित्येव । प्रोोनोति ॥ ६० ॥ नदिस्योः । ४।३।६१। ऊोर्दिस्योः परयोरौन स्यात् । प्रौर्णोत् । पौर्णोः॥ ६१ ॥ तृहः श्नादीत् । ४।३। ६२ । तृहे नात्परोव्यञ्जनादौ वितिपरे ईत् स्यात् । तृणेदि ॥ ६२ ॥ व्रतः परादिः ।४।३।६३। ... ब्रुव ऊतः परोन्यञ्जनादौ विति परादिरीत स्यात् । ब्रवीति । ऊत इति किम् । आत्थ ॥ ६३॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy