SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ २५२ मान्दानुशासनस्य यीत् । अजागरीत् । अशसीत् अक्षणीत् । अग्रहीत् । अवमीत् । अहयीत् । अकगीत् ॥ ४९॥ ञ्णिति । ४।३।५०। त्रिति णिति च परे धातोरुपान्त्यस्यातो वृद्धिः स्यात् । पाकः । पपाच ॥ ५०॥ नामिनोऽकलिहलेः।४।३।५१॥ नाम्यन्तस्य धातोर्नाम्नो वा कलिहलिवर्जस्य णिति वृद्धिः स्यात् । अचायि । कारकः । अपीपटत् । कलिहलि वर्जनं किम् । अचकलत् । अजहलत् ॥५१॥ जागुर्बिणवि। ४।३।५२। जागुऔं णव्येव च णिति वृद्धिः स्यात् । अजागारि। जजागार । त्रिणवीति किम् । जागरयति ॥ ५२॥ आत ऐः कौ । ४।३।५३ । आदन्तस्य धातोंणिति कृति औ च ऐः स्यात् । दायः । दायकः। अदायि । कृदिति किम् । ददौ ॥ ५३॥ न जनवधः। ४।३।५४ । अनयोः कृति णिति औ च वृद्धिर्न स्यात्। प्रजनः। जन्यः। अजनि। वधः। वध्यः। अवधि ॥ ५४॥ - मोऽकमियमिरमिनमिगमिवमा चमः।४।३।५५ । मन्तस्य धातोः कम्यादिवर्जस्य णिति कृति औ च वृद्धिर्न स्यात् शमः। शमकः । अशमि । कम्यादिवर्जनं किम्। कामः। कामुकः। अकामि । यामः। रामः। नामः। अगामि । वामः। आचामकः॥ ५५॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy