________________
स्वोपज्ञलघुतिः । मृजे ऋतः स्वरादी प्रत्यये वृद्धिर्वा स्यात् । परिमार्जन्ति । परि-- मृजन्ति । ऋत इति किम् । ममार्ज । स्वर इति किम् । मृज्वः॥ ४३ ॥ सिचि परस्मै समानस्याङिति ।४।३।४।।
समानान्तस्य धातोः परस्मैपदविषये सिच्यङिति वृद्धिः स्यात् । अवैषीत् । परस्मैपद इति किम्। अच्योष्ट। समानस्येति किम् । अगवीत्। अडितीति किम् । न्यनुवीत् ॥ ४४ ॥ व्यञ्जनानामनिटि । ४।३।४५।
व्यञ्जनान्तस्य धातोः परस्मैपदविषये अनिटि सिचि समानस्य वृद्धिः स्यात् । अराजीत्। समानस्येत्येव। उदवोढाम् । अनिटीति किम् । अतक्षीत् ॥४५॥
वोर्णगः सेटि।४।३।४६ । ऊर्णोः सेटि सिचि परस्मैपदे वृद्धिर्वा स्यात्। पौर्णावीत् । पौर्णवीत्। प्रौणुवीत् ॥ ४६॥ व्यञ्जनादेर्वोपान्त्यस्यातः । ४।३।४७। ___ व्यञ्जनादेर्धातोरुपान्त्यस्यातः सेंटि सिचि परस्मैपदे वृद्धिर्वा स्यात् । अकाणीत् । अकणीत् । व्यञ्जनादेरिति किम् । माभवानटीत् । उपान्त्यस्येति किम् । अवधीत् । अत इति किम् । अदेवीत् । सेटीत्येव । अधाक्षीत् ॥ ४७॥
वदव्रजलः। ४।३।४८ । वदव्रजोर्लन्तरन्तयोश्योपान्तस्यास्य परस्मैपदे सेटि सिचि वृद्धिः स्यात् । अवादीत् । अवाजीत् । अज्वालीत् । अक्षारीत् ॥ १८ ॥ नश्विजागृशसक्षणहयेदितः।४।३।४९।
एषां मयन्तानामेदितां च परस्मैपदे सेटि सिचि वृद्धिर्न स्यात् । अश्व