SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ हेमशब्दानुशासनस्य ऋवर्णात् । ४ । ३ । ३६ । ऋवर्णान्ताद्धातोरनिटावात्मनेपदविषयौ सिजाशिषौ किद्वत्स्याताम् । अकृत । कृषीष्ट । अतीष्ट । तार्षीष्ट ॥ ३६ ॥ गमो वा । ४ । ३ । ३७। गमेरात्मनेपदविषयौ सिजाशिषौ किद्वद्वा स्याताम् । समगत । सम - गंस्त । संगसीष्ट । संगंसीष्ट ॥ ३७ ॥ हनः सिच् । ४ । ३ । ३८ । हन्तेरात्मनेपदविषयः सिच् किद्वत्स्यात् । आहत ॥ ३८ ॥ यमः सूचने । ४ । ३ । ३९ । सूचनार्थाद्यमेरात्मनेपदविषयः सिच् किंदत्स्यात् । उदायत । सूचन इति किम् । आयंस्त रज्जुम् ॥ ३९ ॥ वा स्वीकृतौ । ४ । ३ । ४० । स्वीकारार्थाद्यमेरात्मनेपदविषयः सिच् किद्वद्वा स्यात् । उपायत् । उपायंस्त महास्त्राणि । स्वीकृताविति किम् | आयंस्त पाणिम् ॥ इश्च स्थादः । ४ । ३ । ४१ । स्था दासंज्ञकाञ्चात्मनेपदविषयः सिच् किदत्स्यात् तद्योगे च स्थादोरिव । उपास्थित । आदित । व्यधित ॥ ४१ ॥ मृजोऽस्य वृद्धिः । ४ । ३ । ४२ । मृजेर्गुणे सत्यस्य वृद्धिः स्यात् । मार्ष्टि । अत इति किम् । मृष्टः ॥ ४२ ॥ ऋतः स्वरे वा । ४ । ३ । ४३ ।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy