________________
२४८
हैमशब्दानुशासनस्य
ऋत्तृषमृषकृशवञ्चलुञ्चथफः सेट् | ४ | ३ |२४|
न्युपान्त्ये सत्येभ्योवा क्त्वा सेद विद्वत्स्यात् । ऋतित्वा । अर्त्तिवा । तृषित्वा । तर्षित्वा । मृषित्वा । मर्षित्वा । कृशित्वा । कर्शित्वा । वचित्वा । वशित्वा । लुचित्वा । लुञ्चित्वा । श्रथित्वा । श्रन्थित्वा । गुफित्वा । गुम्फित्वा । न्युपान्त्य इति किम । कोथित्वा । रेफित्वा । सेटिति किम् | वक्त्वा ॥ २४ ॥
वौ व्यञ्जनादेः सन्चाऽद्यः । ४ । ३ । २५ ।
वौउदित्युपान्त्ये सति व्यञ्जनादेर्धातोः परः क्त्वा सन् च सेटौ किद्वा स्यातां नतु द्यन्तात् । द्युतित्वा । द्योतित्वा । दिद्युतिषते । दिद्योतिषते । लिखित्वा । लेखित्वा । लिलिखिषति । लिलेखिषति । वाविति किम् । वर्त्तित्वा । व्यञ्जनादेरिति किम् । उषित्वा । अद्य इति किम् । देवित्वा ॥ २५॥
उतिशवर्ह्राद्भयः क्तौ भावारम्भे | ४ | ३ |२६|
उत्युपान्त्ये सति शवर्हेभ्यो अदादिभ्यश्च परौ भावारम्भयोः तक्तवतू सेटौवा किद्वत्स्याताम् । कुचितम् । कोचितमनेन । प्रकुचितः । प्रकोचितः। प्रकुचितवान् । प्रकोचितवान् । रुदितम् । रोदितमेभिः । प्ररुदितः। प्ररोदितः । प्ररुदितवान् । प्ररोदितवान् । उतीति किम् । श्चितितमेभिः । शव इति किम् । प्रशुधितः । भावारम्भ इति किम् । रुचितः ||२६||
न डीशीङ्घषिश्विदिस्विदिमिदः । ४ । ३ । २७।
एभ्यः परौ सेटौ तक्तवत् किन्न स्याताम् । डयितः । डयितवान् । शयितः । शयितवान् । पचितः। पचितवान् । प्रधर्षितः । प्रधर्षितवान् । प्रक्ष्वेदितः । प्रवेदितवान् । प्रस्वेदितः । प्रस्वेदितवान् । प्रमेदितः । प्रमेदितवान् । सेटावित्येव । डीनः । डीनवान् ॥ २७ ॥