SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ हेमशब्दानुशासनस्य संयोगाददर्तेः । ४।३।९। संयोगात्परो य ऋत् तदन्तस्यार्तेश्च परोक्षायामकि गुणः स्यात्। सस्मरुः । सस्वरुः । आरुः । संयोगादिति किम् । चक्रुः ॥९॥ क्ययङाशीर्ये । ४।३।१०। संयोगात् य ऋत्तदन्तस्यार्तेश्च क्ये यङ्याशीर्ये च गुणः स्यात् । स्मयते । स्वर्यते । अर्यते। सास्मयते। सास्वर्यते। अरार्यते । स्मर्यात् । अर्यात् ॥१०॥ न वृद्धिश्चाविति क्ङिल्लोपे।४।३।११॥ अविति प्रत्यये यः कितोङितश्च लोपस्तस्मिन् सति गुणोवृद्धिश्च न स्यात् । चेच्यः । मरीमृजः ॥ ११॥ - भवतेः सिज्लुपि । ४।३।१२। भुवः सिलुपि गुणो न स्यात् । अभूत् । सिलुपीति किम् । व्यत्यभविष्ट ॥ १२॥ सूतेः पञ्चम्याम् । ४।३।१३। सूतेः पञ्चम्यां गुणो न स्यात् । सुवै ॥ १३ ॥ व्युक्तोपान्त्यस्य शिति स्वरे।४।३॥१४॥ व्युक्तस्य धातोरुपान्त्यस्य नामिनः स्वरादौ शिति गुणो न स्यात् । नेनिजानि । उपान्त्यस्येति किम् । जुहवानि । शितीति किम् । निनेज ॥ १४ ॥ हिणोरप्वितिव्यौ। ४।३।१५। . होरिणश्च नामिनः स्वरादावपित्यविति शिति यथासङ्ख्यं व्यौ स्याताम् । जुह्वति । यन्तु । अप्वितीति किम् । अजुहवुः । अयानि ॥.
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy