SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ स्वोपक्षलघुवृत्तिः। __ अर्हम् नामिनो गुणोऽङिति ।४।३।१। नाम्यन्तस्य धातोः क्डिद्धर्ने प्रत्यये गुणः स्यात् । चेता। अक्कि तीति किम् । युतः ॥ १॥ उश्नोः । ४।३।२। धातोरुश्नोः प्रत्यययोरक्ङिति गुणः स्यात् । तनोति । सुनोति ॥ पुस्पौ । ४।३।३। नाम्यन्तस्य धातोः पुसि पौ च गुणः स्यात् । ऐयरुः । अपर्यति ।। . लघोरुपान्त्यस्य। ४।३।४। धातोरुपान्त्यस्य नामिनोलघोरविङति गुणः स्यात् । भेत्ता। लघो. रिति किम् । ईहते । उपान्त्यस्येति किम् । मिनसि ॥ ४॥ मिदः श्ये । ४।३।५। मिदेरुपान्त्यस्य श्ये गुणः स्यात् । मेद्यति ॥५॥ जागुः किति। ४।३।६। जागुः किति गुणः स्यात् । जागरितः ॥ ६ ॥ ऋवर्णदृशोऽङि।४।३।७। ऋवणान्तानां दृशेश्चाउडि परे गुणः स्यात् । आरत् । असरत् । अजरत् । अदर्शत् ॥ ७॥ स्कृच्छृतोऽकि परोक्षायाम् ।४।३।८। स्कृऋच्छोः ऋदन्तानां च नामिनः परोक्षायां गुणः स्यात् नतु कोपलक्षितायां क्वसुकानोः। सञ्चस्करुः । आनच्छु: । तेरुः । अकीति किम् । सबस्कृवान् ॥ ८॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy