SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ हेमशब्दानुशासनस्य ब्रूगः परेषां तिवादीनां पञ्चानां यथासङ्ख्यं पञ्च णवादयो वा स्युः तद्योगे ब्रूग आहश्च । आह । आहतुः । आहुः । आत्थ । आहथुः । पक्षे वत्यादि ॥११८॥ २४४ आशिषि तुह्योस्तातङ् । ४ । २ । ११९। आशीरर्थयोस्तुह्योस्तातङ् वा स्यात् । जीवतात् । जीवतु भवान् । जीव तात् । जीव त्वम् । नन्दतात् । नन्द त्वम् । आशिषीति किम् । जीवत् ॥ ११९॥ आतो णव औः । ४ । २ । १२० । आतः परस्य णव औः स्यात् । पपौ ॥ १२० ॥ आतामाते आथामाथे आदिः |४| २ | १२१ । आत्परेषामेषामात इः स्यात् । पचेताम् । पचेते । पचेथाम् । पचेथे । आदिति किम् । मिमाताम् ॥ १२१ ॥ यः सप्तम्याः । ४ । २ । १२२ । आत्परस्य सप्तम्याया शब्दस्येः स्यात् । पचेत् । पचेः ॥ १२२॥ याम्युसो रियमियुसौ । ४। २ । १२३। आत्परयोर्याम्युसोर्यथासंख्यमियम, इयुसौ स्याताम् । पचेयम् । पचेयुः ॥ १२३ ॥ इत्याचार्यहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासन लघुवृत्तौ चतुर्थस्याध्यायस्य द्वितीयः पादः ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy