SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ २४१ स्वोपज्ञलघुवृत्तिः । द्वयुक्तजक्षपञ्चतः श्नश्च शित्यऽवित्यातो लुक् स्यात् । मिमते । दरिद्रति । क्रीणन्ति । अवितीत्येव । अजहाम् । अक्रीणाम् ॥ ९६ ॥ एषामीर्व्यञ्जनेऽदः । ४। २।९७। द्वयुक्तजक्षपञ्चतः श्राश्चातः शित्यविति व्यञ्जनादावीः स्यात् नतु दासंज्ञस्य । मिमीते । लुनीतः । व्यञ्जन इति किम् । मिमते । अद इति किम् । दत्तः । धत्तः ॥ ९७ ॥ इर्दरिद्रः । ४ । २ । ९८ । दरिद्रो व्यञ्जनादौ शित्यऽवित्यात इः स्यात् । दरिद्रितः । व्यञ्जन इत्येव । दरिद्रति ॥ ९८ ॥ भियो नवा । ४ । २ । ९९। भियो व्यञ्जनादौ शित्यविति इर्वा स्यात् । बिभितः । बिभीतः ॥ हाकः । ४ । २ । १०० । हाको व्यञ्जनादौ शित्यविति आत इर्वा स्यात् । जहितः । जहीतः ॥ आ च हौ । ४ । २ । १०१ । हाको हौ आत् इश्च वा स्यात् । जहाहि । जहिहि । जहीहि ॥ १०१ ॥ यि लुक् । ४ । २ । १०२ । यादौ शिति हाक आ लुक् स्यात् । जह्यात् ॥ १०२ ॥ ओतः श्ये । ४ । २ । १०३ । धातोरोतः श्ये लुक् स्यात् । अवद्यति । श्य इति किम् । गौरिवाचरति गवति ।। जा ज्ञाजनोऽत्यादौ । ४ । २ । १०४ । ज्ञाजनोः शिति जाः स्यात् नत्वऽनन्तरे तिवादौ । जानाति । जायते । अत्यादाविति किम् । जाज्ञाति । जञ्जन्ति ॥ १०४ ॥ ३१
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy