________________
हैम शब्दानुशासनश्य
अतः शित्युत् । ४ । २ । ८९ ।
शित्यवितिय उस्तन्निमित्तस्य कृगोत उः स्यात् । कुरु । अवितीत्येव । करोति ॥ ८९ ॥
इनास्त्योर्लुक् । ४। २ । ९० ।
२४०
नस्य अस्तेश्चातः शित्यऽविति लुक् स्यात् । रुन्द्धः । स्तः । अत इत्येव । आस्ताम् ॥ ९० ॥
वा द्विषतोऽनः पुस । ४ । २ । ९१ ।
द्विष आदन्ताच परस्य शितोऽवितोऽनः स्थाने पुस् वा स्यात् । अद्विषुः | अदिषन् । अयुः । अयान् ॥ ९१ ॥
सिज्विदोऽभुवः । ४ । २ । ९२ ।
सिच्प्रत्ययाद्विदश्च धातोः परस्य अनः पुस स्यात् नचेत् भुवः परः सिच् स्यात् । अकार्षुः । अविदुः । अभुव इति किम् । अभूवन् ||१२|| द्वयुक्तजक्षपञ्चतः । ४ । २ । ९३ ।
कृत दिलात् जक्षपञ्चकाच्च परस्य शितोऽवितोऽनः पुस् स्यात् । अजुहवुः । अजक्षुः । अदरिदुः । अजागरुः । अचकासुः । अशासुः ॥ ९३॥
अन्तोनोलुक् । ४ । २ । ९४ ।
द्वयुक्तजक्षपञ्चकात् परस्य शितोऽवितोऽन्तोनोलुक् स्यात् । जुह्व. ति । जुह्वत् । जक्षति । जक्षत् । दरिद्रति । दरिद्रत् ॥ ९४ ॥ शौ वा । ४ । २ । ९५ ।
द्वयुक्तजक्षपञ्चकात्परस्यान्तोऽनः शिविषये लुग्वा स्यात् । ददति ददन्ति कुलानि । जक्षति । जक्षन्ति । दरिद्रति । दरिद्रन्ति ॥ ९५ ॥ इनश्चातः । ४ । २ । ९६।