________________
स्वोपज्ञलघुवृत्तिः।
... २३९ भिदेः परस्य क्तस्य नत्वाभावो निपात्यते । शकलपर्यायश्चेत्। मित्तम् शकलनित्यर्थः । शकलमिति किम् । भिन्नम् ॥ ८१ ॥
वित्तं धनप्रतीतम् । ४।२।८२ ।
विन्दतेः परस्य क्तस्य नत्वाभावो निपात्यते धनप्रतीतयोः पर्यायश्चेत् । वित्तं धनम् । वित्तः प्रतीतः । धनप्रतीतमिति किम् । विनः ॥
हुधुटोहेधिः । ४।२।८३ । होवुडन्ताच्च परस्य हेधिः स्यात् । जुहुधि । विद्धि ॥ ८३॥ शासऽस्हनःशाध्येधिजहि।४।२।८४॥
शास्अम्हनां ह्यन्तानां यथासंख्यम् शाधिएधिजहयः स्युः । शाधि । एधि । जहि ॥ ८४॥
अतः प्रत्ययाल्लुक् । ४।२।८५।
धातोः परोयोऽदन्तः प्रत्ययस्ततः परस्य हेर्लुक् स्यात् । दीव्य । अत इति किम् । राध्नुहि । प्रत्ययादिति किम् । पापहि ।। ८५ ॥
असंयोगादोः । ४।२।८६। असंयोगात्परो य उस्तदन्तात्प्रत्ययात्परस्य हेर्लक् स्यात् । सुनु । असंयोगादिति किम् । अणुहि । उरिति किम् । क्रीणीहि ।। ८६ ॥
वम्यऽविति वा ।४।२।८७। असंयोगात्परोय उस्तदन्तस्य प्रत्ययस्य लुग् वा स्यात् वमादौ अवितिपरे । सुन्वः। सुनुवः। सुन्मः। सुनुमः।अवितीति किम् । सुनोमि । असंयोगादित्येव । तक्ष्णुवः ॥ ८७॥
कृगो यि च । ४।२।८८। कृगः परस्योतो यादौ वमिचावितिलुक् स्यात् । कुर्युः। कुर्वः। कुर्मः॥