SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ २३८ हेमशन्दानुशासनस्य वाक्रोशदैन्ये। ४।२।७५। ___ आक्रोशे दैन्ये च गम्ये क्षेः परस्याऽध्यार्थेक्तयोस्तोन्वा स्यात् तद्योगे क्षीश्च । क्षीणायुः । क्षितायुर्जाल्मः । क्षीणकः । क्षितकस्तपस्वी ॥ ऋहीघाधात्रोंदनुदविन्तेर्वा। ४।२।७६। एभ्यः परस्य क्तयोस्तोन्वा स्यात् । ऋणम् । ऋतम् । हीणः हीतः। होणवान् । हीतवान् । घ्राणः। प्रातः। ध्राणः। ध्रातः। त्राणः। त्रातः। समुन्नः। समुत्तः। नुन्नः । नुत्तः। विनः। वित्तः ॥ ७६ ॥ ।।४।२।७७।। दुगुभ्यां परस्य क्तयोस्तो नः स्यात् तद्योगे दुगोरुश्च । दूनः । दूनवान् । गूनः। गूनवान् ॥ ७७ ॥ क्षैशुषिपचोमकवम् । ४।२।७८ । एभ्यः परस्य क्तयोस्तो यथासङ्ख्यं मकवाः स्युः। क्षामः। क्षामवान्। शुष्कः। शुष्कवान् । पक्कः । पकवान् ॥ ७८॥ निर्वाणमऽवाते। ४।२। ७९। अबाते कर्तरि निरपूर्वाद् वातेः परस्य क्तयोस्तोनोनिपात्यते । निर्वाणोमुनिः । अवात इति किम् । निर्वातोवातः ॥ ७९ ॥ अनुपसर्गाःक्षीवोल्लाघकृशपरिकृशफुल्लो स्फुल्लसंफुल्लाः । ४।२।८०। अनुपसर्गाःक्तान्ताएते निपात्यन्ते। क्षीवः। उल्लाघः । कृशः। परि. कृशः। फुल्लः । उत्फुल्लः। संफुल्लः। अनुपसर्गाइति किम् । प्रक्षीवितः ।। भित्तं शकलम् । ४।२।८१ ।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy