SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ 'स्वोपज्ञलघुवृत्तिः । .२३७ मूर्च्छिमदिवत् रदन्तात् परस्य क्तयोस्तस्य तद्योगे धातुदश्च नः स्यात् । पूर्णः पूर्णवान् । भिन्नः भिन्नवान् । अमूर्च्छमद इति किम् । मूर्त्तः । मत्तः । रदान्तस्येति किम् । चरितम् । मुदितम् ॥ ६९ ॥ सूयत्याद्योदितः । ४ । २ । ७० । सूयत्यादिभ्यो नवभ्य ओदिद्भ्यश्च परस्य क्तयोस्तो नः स्यात् । सूनः। सूनवान । दूनः । दूनवान् । लग्नः । लग्नवान् ॥ ७० ॥ व्यञ्जनान्तस्थातोऽख्याध्यः ।४।२।७१ | ख्याध्यावर्जस्य धातोर्यद्वयञ्जनं तस्मात्परा याऽन्तस्था तस्याः परो य आस्तस्मात् परस्य क्तयोस्तो नः स्यात् । स्त्यानः। स्त्यानवान् । व्यञ्जन इति किम् । यातः । अन्तस्था इति किम् । स्नातः । आत इति किम् । च्युतः । धातोर्व्यञ्जनेति किम् । निर्यातः । अख्याध्य इति किम् । ख्यातः ध्यातः । आतः। परस्येति किम् । दरिद्रितः ॥ ७१ ॥ पूदिव्यञ्चेर्नाशाद्यूताऽनपादाने । ४ । ३ । ७२ । एभ्यो यथासङ्ख्यं नाशाद्यर्थेभ्यः परस्य क्तयोस्तो नः स्यात् । पूनायवाः । आद्यूनः । समक्क्रौ पक्षौ । नाशाद्यतानपादान इति किम्। पूतम् । द्यतम् । उदक्तं जलम् ॥ ७२ ॥ सेसे कर्मकर्त्तरि । ४ । २ । ७३ । सेः परस्य तयोस्तो प्रासे कर्मकर्त्तरि नः स्यात् । सिनोमासः स्वयमेव । कर्मकर्त्तरीति किम् । सितो मासो मैत्रेण ॥ ७३ ॥ क्षेः क्षीचाsध्यार्थे । ४ । २ । ७४ । व्यणोऽर्थोभावकर्म्मणी ततोऽन्यस्मिन्नर्थे क्तयोस्तः क्षेः परस्य नः स्यात् तद्योगे क्षेः क्षीश्च । क्षीणः। क्षीणवान् मैत्रः । अध्यार्थे इति किम् । क्षितमस्य ॥ ७४ ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy