________________
स्वोपज्ञलघुत्तिा चित्तकर्तृकस्य दुषरुपान्त्यस्य णौ परे उद् वा स्यात् । मनोदूषयति । मनोदोषयति मैत्रः॥४१॥
गोहः स्वरे । ४।२।४२ । कृतगुणस्य गुहेः स्वरादावुपान्त्यस्योत्स्यात् । निगृहति । गोह इति किम् । निजुगुहुः ॥ ४२॥ भुवोवः परोक्षाद्यतन्योः। ४।२।४३॥
भुवोवन्तस्योपान्त्यस्य परोक्षाद्यतन्योरूत्स्यात् । बभूव । अभूवन् । व इति किम् । बभूवान् । अभूत् ॥ ४३ ॥ गमहनजनखनघसः स्वरेऽनङिक्ङिति
लुक्। ४।२।४४। एषामुपान्त्यस्याङ्बजे स्वरादौ विङतिपरे लुक् स्यात् । जग्मुः जघ्नुः । जज्ञे । चख्नुः । जक्षुः। स्वर इति किम् । गम्यते । अनीति किम्। अगमत् । विङति किम् । गमनम् ॥ ४४ ॥
नोव्यञ्जनस्यानुदितः।४।२।४५।
व्यञ्जनान्तस्यानुदितोधातोरुपान्त्यस्य नः क्ङिति परे लुक् स्यात् । स्रस्तः। सनीस्रस्यते । व्यञ्जनस्येति किम् । नीयते । अनुदित इति किम्। नानन्द्यते ॥ ४५ ॥
अञ्चोऽनर्चायाम् । ४।२।४६ ।
अनार्थस्यैवाञ्चेरुपान्त्यनो विङति परे लुक् स्यात् । उदक्तमुदकं कूपात् । अन यामिति किम् । अञ्चिता गुरवः ॥ ४६ ॥ लङ्गिकम्प्योरुपतापाङ्गविकृत्योः।४।२।४७।