________________
२३२
हैमशब्दानुशासनस्य भ्राजभासभाषदीपपीडजीवमीलकणरणवणभणश्रणहेहेठलुटलुपलपां न
वा।४।२।३६। एषां ङपरे णावुपान्त्यस्य हस्खोवा स्यात् । अबिभ्रजत् । अबभ्राजत् । अबीमसत् । अबभासत् । अबीमषत् । अबभाषत् । अदीदिपत् । अदिदीपत् । अपीपिडत् । अपिपीडत् । अजीजिवत् । अजिजीवत् । अमीमिलत् । अमिमीलत् । अचीकणत् । अचकाणत् । अरीरणत् । अरराणत् । अवीवणत् । अववाणत् । अबीमणत् । अबमाणत् । अशिश्रणत् । अशिश्राणत् । अजूहवत् । अजुहावत् । अजीहिठत् । अजिहेठत् । अलूलुटत् । अलुलोटत् । अलूलुपत् । अलुलोपत् । अलीलपत् । अललापत् ॥ ३६ ॥
ऋवर्णस्य । ४।२।३७। उपान्त्यस्य ऋवर्णस्य उपरे णौ वा ऋः स्यात् । अवीवृतत् । अववर्त्तत् । अचीकृतत् । अचिकीर्तत ॥ ३७॥
जिघतेरिः।४।२।३८ । घउपान्त्यस्य उपरे णौ इर्वा स्यात् । अजिघ्रिपत् । अजिघ्रपत् ॥
तिष्ठतेः।४।२।३९ । स्थउपान्त्यस्य ङपरे णौ इ. स्यात् । अतिष्ठिपत् ॥ ३९ ॥
ऊदुषोणौ । ४।२।४० । दुषेरुपान्त्यस्य उपरे णौ ऊत्स्यात् । दूषयति ॥ ४० ॥
चित्ते वा।४।२।४१ ।