________________
स्वोपज्ञलघुवृत्तिः ।
२३१ चहेश्चुरादेः शाठ्यार्थस्य णिचि णो इस्वः स्यात् अिणम्परे तु वा दीर्घः। चहयति । अचाहि । अचहि । चाहंचाहम् । चहचहम् । शाठय इति किम् । अचहि ॥ ३१॥ ज्वलहलह्मलग्लास्नावनूवमनमोऽनुपसर्गस्य
वा।४।२।३२। एषामनुपसर्गाणां णौ इस्वो वा स्यात् । ज्वलयति । ज्वालयति । ह्वलयति । ह्वालयति । मलयति । ह्यालयति । ग्लपयति । ग्लापयति । स्नपयति । स्नापयति । वनयति । वानयति । वमयति । वामयति । नमयति । नामयति । अनुपसर्गस्येति किम् । प्रज्वलयति । प्रहलयति । प्रह्मलयति । प्रग्लापयति । प्रस्नापयति । प्रवनयति। प्रवमयति । प्रणमयति ॥ ३२ ॥
छदेरिस्मन्त्रट कौ।४।२।३३।
छदेरिस्मन्त्रविप्परे णौ इस्वः स्यात् । छदिः। छद्म । छत्री। उपच्छत् ॥ ३३॥
एकोपसर्गस्य च घे। ४।२।३४।
एकोपसर्गस्यानुपसर्गस्य च छदेर्घपरे णौ इस्वः स्यात् । प्रच्छदः । छदः । एकोपसर्गस्य चेतिं किम् । समुपच्छादः ॥ ३४ ॥ उपान्त्यस्यासमानलोपिशास्वृदि
तो डे । ४।२।३५ । समानलोपिशास्वृदिदर्जस्य धातोरुपान्त्यस्य ङपरे णौ हस्वः । स्यात् । अपीपचत् । माभवानटिटत् । असमानलोपिशास्वृदित इति किम् । अत्यरराजत् । अशशासत् । माभवानोणिणत् ॥ ३५॥