________________
२३०
हैमशब्दानुशासनस्य कम्यमिचमिवर्जस्यामन्तस्य णौ हस्वः स्यात् त्रिणम्परे तु वा णौ दीर्घः । रमयति । अरामि । अरमि । रामरामम् । रमरमम् । अकम्यमिचम इति किम् । कामयते। अकामि । कामकामम् । आमयति । आचामयति ॥ २६ ॥
पर्यपात् स्खदः । ४।२।२७। __ आभ्यामेव परस्य स्खदेौँ हवः स्यात् त्रिणम्परे तु वा दीर्घः। परिस्खदयति । पर्यस्खादि । पर्यस्खदि । परिस्खादंपरिस्खादम् । परिस्खदंपरिस्खदम् । अपस्खदयति । अपास्खादि । अपास्खदि । अप. स्वादमपस्खादम् । अपस्खदमपस्खदम् । पर्यपादिति किम् । प्रस्खादयति ॥ २७॥
शमोऽदर्शने । ४।२।२८ । अदर्शनार्थस्य शमे) इस्वः स्यात् त्रिणम्परे तु वा दीर्घः । शमयति रोगम् । अशामि । अशमि । शामंशामम् । शमंशमम् । अदर्शन इति किम् । निशामयति रूपम् ॥ २८ ॥ यमोऽपरिवेषणे णिचि च । ४।२।२९।
अपरिवेषणार्थस्य यमोणिचि अणिचि च णौ हस्वः स्यात् . त्रिणम्परे तु वा दीर्घः । यमयति । अयामि । अयमि । यामयामम् । यमंयमम् । अपरिवेषण इति किम् । यामयत्यतिथिम् ॥ २९ ॥ मारणतोषणनिशाने ज्ञश्च । ४।२।३०॥
एश्वर्थेषु ज्ञो णिचि अणिचि च णौ इस्वः स्यात् त्रिणम्परे तु वा दीर्घः । संज्ञपयति पशुम् । विज्ञपयति राजानम् । प्रज्ञपयति शस्त्रम् । अज्ञापि । अज्ञपि । ज्ञापंज्ञापम् । ज्ञपंज्ञपम् ॥ ३० ॥
चहणः शाठये । ४।२।३१ ।