________________
२२९
स्वोपज्ञलघुवृत्तिः। अर्तिरीब्लीहीकूयिक्ष्माय्यातां
पुः। ४।२।२१। एषामादन्तानां च णौ पुरन्तः स्यात् । अर्पयति । रेपयति । ब्लेपयति । हेपयति । कोपयति । मापयति । दापयति । सत्यापयति ।।
स्फायः स्फाव् । ४।२।२२। णौ स्फायः स्फाव् स्यात् । स्फावयति ॥ २२ ॥
शदिरगतौ शात् । ४।२।२३।
शदिरगत्यर्थे णौ शात्स्यात् । पुष्पाणि शातयति । अगताविति किम् । गाः शादयति ॥ २३ ॥ घटादेह्रस्वोदीर्घस्तु वा भिणम्परे।४।२।२४।
घटादीनां णौ इस्वः स्यात् निणम्परे तु णौ वा दीर्घः । घटयति। अघाटि । अघटि । घाटं घाटम् । घटं घटम् । व्यथयति । अव्याथि । अव्यथि । व्याथं व्याथम् । व्यथं व्यथम् ॥ २४ ॥ कगेवनूजनैजषनरञ्जः ।४।२।२५। ।
एषां णौ इस्वः स्यात मिणम्परे तु वा णौ दीर्घः । कगयति । अकागि। अकगि। कागंकागम् । कगंकगम् । उपवनयति । उपावानि। उपावनि । उपवानमुपवानम् । उपवनमुपवनम् । जनयति । अजानि । अजनि । जानजानम्। जनंजनम् । जस्यति। अजारि। अजरि। जारंजारम् । जरंजरम् । कसयति । अकासि । अकसि । कासंकासम् । कसंकसम् । रजयति । अरानि । अरजि । राजराजम् । रजरजम् ॥ २५ ॥
अमोऽकम्यमिचमः। ४।२।२६। ,