SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ २२८ हैमशब्दानुशासनस्य ___गर्भाधानार्थस्य वियो णौ वा आत्स्यात् । पुरोवातोमा। प्रवापयति । प्रवाययति ॥ १३ ॥ रुहः पः।४।२।१४। रहेो वा स्यात् । रोपयति रोहयति वा तरुम् ॥ १४ ॥ लियोनोऽन्तः स्नेहद्रवे ।४।२।१५। लियः स्नेहव्वे गम्ये णौ नोन्तोवा स्यात् । घृतं विलीनयति । विलाययति । स्नेहद्रव इति किम् । अयोविलाययति ॥ १५॥ लोलः । ४।२।१६ । लारूपस्य णौ स्नेहवे गम्ये लोऽन्तोवा स्यात् । घृतं विलालयति । विलापयति वा । स्नेहद्रव इत्येव । जटाभिरालापयते ॥ १६ ॥ पातेः। ४।२।१७। पातेो लोऽन्तः स्यात् । पालयति ॥ १७ ॥ धूगप्रीगोनः । ४।२।१८। धूरापीगोर्णी नोऽन्तः स्यात् । धूनयति । प्रीणयति ॥ १८ ॥ वोविधूनने जः। ४।२।१९। वा इत्यस्य विधूननेऽर्थे णौ जोऽन्तः स्यात् । पक्षणोपवाजयति । विधूनन इति किम् । उच्चैः केशानावापयति ॥ १९ ॥ पाशाछासावेव्याहोयः।४।२।२०। एषां णौ योऽन्तः स्यात् । पाययति । शाययति । अवच्छाययति । अवसाययति । वाययति । व्याययति । हाययति ॥२०॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy