________________
२२७
स्वोपज्ञलघुकृत्तिः। दीङः सनि वा। ४।२।६।। दीङः सन्यावा स्यात् । दिदासते । दिदीषते ॥६॥
यबक्ङिति । ४।२।७। दीडोयष्यक्डिति च विषये आत्स्यात् । उपदाय । उपदाता । उपदायो वर्त्तते ॥ ७॥ मिग्मीगोऽखलचलि। ४।२।८।
अनयोर्यपि खलअचअल्वर्जेऽङिति च विषये आत्स्यात् । निमाया निमाता । प्रमाय । प्रमाता। अखलचलीति किम् । ईपनियमः । दुःप्र. मयः । मयः । आमयः । निमयः । प्रमयः ॥ ८॥ .
लीक्लिनोर्वा । ४।२।९। अनयोर्यपि खलअच् अल्वर्जे विङति च विषये आदास्यात् । विलाय । विलीय। विलाता । विलेता। अखलचलीतिकिम् । ईषद्धिलयः । विलयः । विलयोऽस्ति ॥९॥
. णौ क्रीजीङः।४।२।१०॥ एषां णौ आत्स्यात् । क्रापयति । जापयति । अध्यापयति ॥१०॥
सिध्यतेरज्ञाने । ४।२।११। अज्ञानार्थस्य सिध्यतेहूं स्वरस्यात् स्यात् । मन्त्रं साधयति । अज्ञान इति किम् । तपस्तापसं सेधयति ॥ ११ ॥
चिस्फुरोर्नवा ।४।२।१२। चिस्फुरोर्णी स्वरस्यावास्यात् । चापयति । चायति । स्फारयति । स्फोरयति ॥ १२ ॥
"वियः प्रजने । ४।२।१३।