SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ २२६ हैमशब्दानुशासनस्य भुजेयुब्जेश्च घअन्तस्य पाणौ रोगे चार्थे यथा सङ्ख्यं भुजन्युब्जौ निपात । भुजः पाणिः । न्युजोरोगः ॥१२० ॥ वीरुन्न्यग्रोधौ। ४।१।१२१। विपूर्वस्य रहेः विपि न्यक्पूर्वस्य वाचिवीरुन्न्यग्रोधौ एतौ धान्तौ निपात्येते । वीरुत् । न्यग्रोधः ॥ १२१ ॥ इत्याचार्यहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानखोपज्ञशब्दानुशासनलघुवृत्तौ चतुर्थस्याध्यायस्य प्रथमः पादः॥ अर्हम् आत्सन्ध्यक्षरस्य । ४।२।१। धातोः सन्ध्यक्षरान्तस्यात्स्यात् । संव्याता । सुग्लः । धातोरित्येव । गोभ्याम् ॥१॥ न शिति । ४।२।२। सन्ध्यक्षरान्तस्य शिति विषयभूते आन्न स्यात् । संव्ययति ॥२॥ • व्यस्थवणवि । ४।२।३। व्यः थवि णवि च विषये आन्न स्यात् । संविव्याय । संविव्ययिथ ॥ ३ ॥ स्फुरस्फुलोर्घञि। ४।२।४। अन्योः सन्ध्यक्षरस्य घनि आत्स्यात् । विस्फारः। विस्फालः॥४॥ मि। ४।२।५। अपपूर्वस्य गुरेः सन्ध्यक्षरस्य णम्यादा स्यात् । अपगारमपगारम् । अपगोरमपगोरम् ॥ ५॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy