SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुकृत्तिः। न वश्चेर्गतौ।४।१।११३। . गत्यर्थस्य वञ्चेः कत्वं न स्यात् । वञ्चं वञ्चन्ति । गताविति किम् । वत काष्ठम् ॥ ११३॥ यजेर्यज्ञाङ्गे।४।१।११४। यज्ञानवृर्यजेर्गत्वं न स्यात् । पञ्च प्रयाजा। यज्ञाङ्ग इति किम् । प्रयागः ॥११४॥ . ध्यण्यावश्यके।४।१।११५॥ आवश्यकोपाधिके व्यणि चजो कगौ न स्याताम् । अवश्यपाच्यम्। अवश्यरञ्ज्यम् । आवश्यक इति किम् । पाक्यम् ॥ ११५ ॥ निप्राधुजः शक्ये।४।१।११६। आभ्यां युजः शक्ये गम्ये ध्यणि गो न स्यात् । नियोज्यः। प्रयोज्यः। शक्य इति किम् । नियोग्यः ॥ ११६ ॥ भुजोभक्ष्ये ।४।१।११७। भुजोभक्ष्यार्थे ध्यणि गो न स्यात् । भोज्यं पयः। भक्ष्य इति किम् । भोग्या भूः ॥ ११७॥ त्यज्यजप्रवचः।४।१।११८। एषां ध्यणि कगौन स्याताम्। त्याज्यम् । याज्यम् । प्रवाच्यः॥११०॥ वचोऽशब्दनाम्नि।४।१।११९। अशब्दसंज्ञायां वचेय॑णि को न स्यात् ।वाच्यम् । अशब्दनाम्नीति किम् । वाक्यम् ॥ ११९ ॥ भुजन्युजं पाणिरोगे। ४।१।१२०।।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy