________________
स्वोपज्ञलघुवृत्तिः ।
चान् । अवशीनम् । अवश्यानं हिमम् । अवश्यानः । अवश्यानवान् ॥ ९९ ॥
श्रः शृतं हविः क्षीरे । ४ । १ । १०० ।
श्रातेः श्रायतेश्च के हविषि क्षीरे चार्थे शर्निपात्यते । शृतं हविः । शृतं क्षीरं स्वयमेव । हविः क्षीर इति किम् । श्राणा यवागूः ॥ १०० ॥ पेः प्रयोक्ये । ४ । १ । १०१ ।
२२३
श्रातेः श्रायतेर्वा ण्यन्तस्यैकस्मिन् प्रयोक्तरि के परे हविःक्षीरयोः शृर्निपात्यते । शृतं हविः क्षीरं वा चैत्रेण । हविःक्षीर इत्येव । श्रपिता यवागूः । प्रयोक्त्रैक्य इति किम् । श्रपितं हविश्वैत्रेण मैत्रेण ॥ १०१ ॥
।
वृत्सकृत् । ४ । १ । १०२ । अन्तस्थास्थानमिउऋत्सकृदेव स्यात् । संवीयते ॥ १०२ ॥
दीर्घमवोऽन्त्यम् । ४ । १ । १०३ । वेग्वर्जस्य खुदन्त्यं दीर्घ स्यात् । जीनः । अत्र इति किम् । उतः । अन्त्यमिति किम् । सुप्तः ॥ १०३ ॥
स्वरहन्गमोः सनि घुटि । ४।१।१०४ |
स्वरान्तस्य हनुगमाश्च धडादौ सनि दीर्घः स्यात् । चिचीषति । जिघांसति । जिगांसते । धुटीति किम् । यियविषति ॥ १०४ ॥ तनोवा । ४ । १ । १०५ ।
तनेधुंडादौ सनि दीर्घोवा स्यात् । तितांसति । तितंसति । टीत्येव । तितनिषति ॥ १०५ ॥
क्रमः क्त्विवा । ४ । १ । १०६ ।