SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ हेमशब्दानुशासनस्य __ आङोऽन्धूधसोः। ४।१।९३ । .., आक परस्य प्यायरेन्धूधसि चार्थे क्तयोः परतः पीः स्यात् । आपीनोऽन्भुः । आपीनमूधः। अन्धूधसोरिति किम् । आप्यानचन्द्रः । आर एवेति नियमाव, पाण्यानमूधः ॥ ९३ ॥ स्फायः स्फीर्वा । ४।१।९४। स्फायतेः क्तयोः परयोः स्फीर्वा स्यात् । स्फीतः । स्फीतवार । स्फातः । स्फातवान् ॥ ९४ ॥ प्रसमः स्त्यः स्तीः।४।१।९५। प्रसम्समुदायपूर्वस्य स्त्यः क्तयोः परयोः स्तीः स्यात् । प्रसंस्तीत प्रसस्तीतवान् । असम इति किम् । संप्रस्त्यानः ॥ ९५॥ प्रातश्चमोवा।४।१।९६। प्रात् केवलात्परस्य स्त्यः क्तयोः परयो स्तीः स्यात् क्तयोस्तो. मश्च वा । प्रस्तीतः । प्रस्तीतवान् । प्रस्तीमः । प्रस्तीमवान् ॥१६॥ श्यः शीद्रवमर्तिस्पर्शनश्चास्पर्शे४।१॥९॥ ___ मूर्तिः काठिन्यं द्रवमूर्तिस्पर्शार्थस्य श्यः क्तयोः परयोः शीः स्यात्। तद्योगेचक्तयोस्तोऽस्पर्शविषये नश्च । शीनम् । शीनाघृतम् । शीतं वर्त्तते । शीतोवायुः ॥ ९७॥ प्रतेः।४।१।९८ । प्रतेः परस्य श्यः क्तयोः परयोः शीः स्यात्तद्योगे तयोः स्तोन्च । पतिशीनः। प्रतिशीनवान् ॥ ९८॥ वाऽभ्यऽवाभ्याम् । ४।१। ९९। ____ आभ्यां परस्य श्यः क्तयोः परयोः शीवा स्यात्तद्योगे च क्तयोः स्तोऽस्पर्शे नश्च । अभिशीनः । अभिशीनवान् । अमिश्यानः। अमिश्या
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy