SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ हेमशब्दानुशासन स्प संपर्वा । ४ । १ । ७८ । आभ्यां परस्य व्यो यपि वृद्वा न स्यात् । संव्याय । संवीय । परिव्यय । परिवीय ॥७८॥ यजादिवचेः किति । ४ । १ । ७९ । यजादेर्वचेश्च सस्वरान्तस्था किति परे ग्वृत् स्यात् । ईजुः । ऊयुः । ऊचुः । कितीति किम् | यक्षीष्ट ॥ ७९ ॥ स्वपेर्यङ्गे च । ४ । १ । ८० । स्वपेर्यङि के किति च परे सस्वरान्तस्था वृत्स्यात् । सोबुध्यते । अमूषुपत् । सुषुप्सति ॥ ८० ॥ ज्याव्यधः क्ङिति । ४ । १ । ८१ । ज्याव्यधोः सस्वरान्तस्था किति ङिति वत्स्यात् । जीयात् । जिनाति । विध्यात् । विध्यति ॥ ८१ ॥ व्यचोऽनसि । ४ । १ । ८२ । व्यचेः सस्वरान्तस्था अस्सर्जे क्ङिति वत्स्यात् । विचति । अनसीति किम् । उरुव्यचाः ॥ ८२ ॥ वशेरयङि । ४ । १ । ८३ । वशेः सस्वरान्तस्था अयङि क्ङिति वत्स्यात् । उष्टः । उशन्ति । जुयङीति किम् । वावश्यते ॥ ८३ ॥ ग्रहवश्चभ्रस्जप्रच्छः । ४ । १ । ८४ । एषां सस्वरान्तस्था क्ङिति वृत्स्यात् । जगृहुः। गृह्णाति । वृक्णः । वृश्वति । भृष्टः । भृज्जति । पृष्ठः । पृच्छा ॥ ८४ ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy